OM

मोक्षोपायः



मूलश्लोकाः


वसिष्ठः
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ।
संवादं दैत्यनाथस्य तथा देवगुरोः पुरा ॥१॥

अतीतषष्ठकल्पस्य पूर्वम् एकादशे मनौ ।
चतुर्युगे पञ्चदशे त्रेतायां वसुधातले ॥२॥

आसिद् दैत्यो बलो नाम साक्षाद् बलम् इवोद्धतम् ।
लसद्दर्पावदलितदैत्यदानवराक्षसः ॥३॥

उत्सादिताशेषपुरो भुक्ताशेषजनव्रजः ।
आक्रान्ताशेषभुवनो जिताशेषसुरेश्वरः ॥४॥

त्रैलोक्यं तेन निर्जित्य स्वीकृता वासवस्थितिः ।
क्षुण्णग्रामटिकेवैका देशे ऽराजनि दस्युना ॥५॥

शक्रस् सपरिवारो ऽस्य भृत्यताम् अनुजग्मिवान् ।
लोकपालाप्सरस्सिद्धविद्याधरगणैस् सह ॥६॥

स पालयञ् जगद्राज्यं हृत्वेन्द्रत्वं शचीपतेः ।
यथावद् अखिलं सम्यगाचारम् अनुतस्थिवान् ॥७॥

स कदाचित् सभासंस्थः कथाप्रस्तावतः क्वचित् ।
नरमृत्युकथामध्ये गुरुं पप्रच्छ वाक्पतिम् ॥८॥

बलः
भस्मीभूतस्य शान्तस्य पुनर् आगमनं कुतः ।
परलोकोपलम्भश् च शरीरेण विना कुतः ॥९॥

बृहस्पतिः
मृगतृष्णाम्बुवद् देहो जीवस्य प्रतिभासते ।
असत्यात्मा स्वसंवित्तेः पयसीव तरङ्गकः ॥१०॥

न तत्त्वतो दह्यते ऽसौ जायते न च तत्त्वतः ।
न तत्त्वतश् च म्रियते दुःखं चानुभवत्य् अति ॥११॥

यादृग्भावो भवत्य् एष जीवस् तत् फलम् अश्नुते ।
नासत्यत्वं न सत्यत्वं किञ्चिद् अस्योपयुज्यते ॥१२॥

यया कयाचिद् युक्त्यैव राजन् भावनभावने ।
विनिवृत्ते क्व जीवत्वं बन्धमोक्षदृशौ क्व च ॥१३॥

सदेहो ऽहं हि जीवामि चिरम् अप्य् उपलभ्य ह ।
चेतत्य् अहं मृतो ऽस्मीति जीवस् स्वप्न इवावपुः ॥१४॥

पिण्डदानादिना भूयो भावितेनाशु पश्यति ।
जातो ऽस्मीति ततः कर्मभोक्तास्मीति च चेतति ॥१५॥

इयं मृतिर् अयं व्याधिर् इदं मरणम् आगतम् ।
इदं जीवितम् एता मे योनयस् सुखदुःखदाः ॥१६॥

इत्य् अन्तश् चेतति पुमाञ् जलद्रवविवृत्तिवत् ।
अभावितं भावितं च स्वचमत्कारजं च तत् ॥१७॥

जीवितप्रतिभासो ऽथ मरणप्रतिभासनम् ।
अन्यताप्रतिभासाश् च जीवस्यैव व्यवस्थिताः ॥१८॥

न देहः परमार्थेन विद्यते न च भूतता ।
असद् एवेदम् आभाति सद् इव भ्रममात्रकम् ॥१९॥

वेदनं विद्धि संसारम् अवेदनम् असंसृतिम् ।
जीवो यादृक्संसृतिस् स्यात् तादृग् एव च चेतति ॥२०॥

एतावन्मात्रकैवेयं युक्तिर् उक्ता मनीषिभिः ।
अनुभूयत एवैतत् किम् एतावति विभ्रमः ॥२१॥

जीवे ऽन्तर् अस्ति संसारस् तिले तैलम् इवाबिलम् ।
न संसारान्तरे जीवस् स्वप्नादाव् इति दृश्यते ॥२२॥

कटकत्वं सुवर्णे ऽस्ति कटकत्वे न हेमता ।
अविचारणयास्त्य् एतत् प्रेक्षया नेह विद्यते ॥२३॥

अधिकप्रेक्षया कैश्चिन् न हेमाप्य् अनुभूयते ।
अतो न हेम नो जीवः कटकत्वं च नाङ्ग सत् ॥२४॥

यद् अन्तर् अस्ति तद् राजन्न् अन्तर् एवानुभूयते ।
मनाग् अप्य् अत्र नो बाह्यसाधनाद्य् उपयुज्यते ॥२५॥

मृगतृष्णाम्बु जीवादि तत्समाश् चानुभूतयः ।
वेदनावेदनाद्यास् तद् यच् छिष्टं तद् अवाग्गति ॥२६॥

भ्रम एवोदितो मिथ्या भ्रमो मिथ्या विलीयते ।
शेषं शान्तम् अवाग्योग्यं यत् तद् अस्ति न चास्ति वा ॥२७॥

अयं मृतो ऽहम् अस्मीति जीवो भावितभावनः ।
अजातो म्रियते ऽन्यत्र जातो ऽस्मीत्य् अवगच्छति ॥२८॥

देशकालक्रियाद्रव्यराशीन् स्वमननात्मकान् ।
जीवको ऽनुभवत्य् अन्तर् जलं द्रवरयान् इव ॥२९॥

प्रमाणातीतचिद्रूपरूपत्वाज् जीवको ऽप्य् असन् ।
तेनानुभाव्यानुभवौ न सन्तौ नानुभावकः ॥३०॥

असत्यम् एव सत्याभं जीवस् स्वप्रतिभात्मकम् ।
सभूम्यम्बरशैलार्कं वपुः पश्यति वा न वा ॥३१॥

जीवः पश्यति चेद् एतत् तद् अनर्थविजृम्भणा ।
न चेत् पश्यति चात्मैव तत् परोपशमश् शिवः ॥३२॥

निरस्तशास्त्रार्थविचारचापलं विलीननानाकुलकार्यगौरवम् ।
असम्भवत्सानुभवोद्भवभ्रमं प्रशान्तनिर्वाणम् अशेषम् ईश्वरः ॥३३॥